|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.74. अध्यायः 074
Mahabharata - Ashvamedhika Parva - Chapter Topics
अर्जुनेन त्रैगर्तानां पराजयः॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
वैशम्पायन उवाच।
त्रिगर्तैरभवद्युद्धं कृतवैरैः किरीटिनः।
महारथसमाज्ञातैर्हतानां पुत्रनप्तृभिः॥ 14-74-1(94525)
ते समाज्ञाय सम्प्राप्तं यज्ञियं तुरगोत्तम*****
विषयान्तं ततो वीरा दंशिताः पर्यवारयन्॥ 14-74-2(94526)
रथिनो बद्धतूणीराः सदश्वैः समलङ्कृतैः।
परिवार्य हयं राजन्ग्रहीतुं सम्प्रचक्रमुः॥ 14-74-3(94527)
ततः किरीटी सञ्चिन्त्य तेषां तत्र चिकीर्षितम्।
वारयामास तान्वीरान्सान्त्वपूर्वमरिंदमः॥ 14-74-4(94528)
तदनादृत्य ते सर्वे शरैरभ्यहनंस्तदा।
तमोरजोभ्यां संछन्नांस्तान्किरीटी न्यवारयत्॥ 14-74-5(94529)
तानव्रवीत्ततो जिष्णुः प्रहसन्निव भारत।
निवर्तध्वमधर्मज्ञाः श्रेयो जीवितमेव च॥ 14-74-6(94530)
स हि वीरः प्रयास्यन्वै धर्मराजेन वारितः।
हतबान्धवा न ते पार्त हन्तव्याः पार्थिवा इति॥ 14-74-7(94531)
स तदा तद्वचः श्रुत्वा धर्मराजस्य धीमतः।
तान्निवर्तध्वमित्याह न न्यवर्तन्ति चापि ते॥ 14-74-8(94532)
ततस्त्रिगर्तराजानं सूर्यवर्माणमाहवे।
विनद्य शरजालेनि प्रजहास धनंजयः॥ 14-74-9(94533)
ततस्ते रथघोपेण रथनेमिस्वनेन च।
पूरयन्तो दिशः सर्वा धनंजयमुपाद्रवन्॥ 14-74-10(94534)
सूर्यवर्मा ततः पार्ते शराणां नतपर्वणाम्।
शतान्यमुञ्चद्राजेन्द्र लघ्वस्त्रमभिदर्शयन्॥ 14-74-11(94535)
तथैवान्ये महेष्वासा ये च तस्यानुयायिनः।
मुमुचुः शरवर्षाणि धनंजयवधैषिणः॥ 14-74-12(94536)
स ताञ्ज्यामुखनिर्मुक्तैर्बहुभिः सुबहूञ्शरान्।
चिच्छेद पाण्डवो राजंस्ते भूमौ न्यपतंस्तदा॥ 14-74-13(94537)
केतुवर्मा तु तेजस्वी तस्यैवावरजो युवा।
युयुधे भ्रातुरर्थाय पाण्डवेन यशस्विना॥ 14-74-14(94538)
तमापतन्तं सम्प्रेक्ष्य केतुवर्माणमाहवे।
अभ्यघ्नन्निशितैर्बाणैर्बीभत्सुः परवीरहा॥ 14-74-15(94539)
केतुवर्मण्यभिहते धृतवर्मा महारथः।
रथेनाशु समुत्पत्य शरैर्जिष्णुमवाकिरत्॥ 14-74-16(94540)
तस्य तां शीघ्रतामीक्ष्य तुतोषातीव वीर्यवान्।
गुडाकेशो महादेजा बालस्य धृतवर्मणः॥ 14-74-17(94541)
न संदधानं ददृशे नाददानं च तं तदा।
किरन्तमेवं स शरान्ददृशे पाकशासनिः॥ 14-74-18(94542)
स तु तं पूजयामास धृतवर्माणमाहवे।
मनसा तु मुहूर्तं वै रणे समभिहर्षयन्॥ 14-74-19(94543)
`न विव्याध रणे क्रुद्धः कुन्तीपुत्रो हसन्निव।
सौभद्रस्येव तत्कर्म दृष्ट्वा बालस्य विस्मितः॥ 14-74-20(94544)
तं पन्नगमिव क्रुद्धं कुरुवीरः स्मयन्निव।
प्रीतिपूर्वं महाबाहुः प्राणैर्न व्यपरोपयत्॥ 14-74-21(94545)
स तथा रक्ष्यमाणो वै पार्थेनामिततेजसा।
धृतवर्मा शरं दीप्तं मुमोच विजये तदा॥ 14-74-22(94546)
स तेन विजयस्तूर्णमासीद्विद्धः करे भृशम्।
मुमोच गाण्डिवं मोहात्तत्पपाताथ भूतले॥ 14-74-23(94547)
धनुषः पततस्तस्य सव्यसाचिकराद्विभो।
बभूव सदृशं रूपं शक्रचापस्य भारत॥ 14-74-24(94548)
तस्मिन्निपतिते दिव्ये महाधनुषि पार्थिवः।
चकार सस्वनं हासं धृतवर्मा महाहवे॥ 14-74-25(94549)
ततो रोषार्दितो जिष्णुः प्रमृज्य रुधिरं करात्।
धनुरादत्त तद्दिव्यं शरवर्षैर्ववर्ष च॥ 14-74-26(94550)
ततो हलहलाशब्दो दिवस्पृगभवत्तदा।
नानाविधानां भूतानां तत्कर्माणि प्रशंसताम्॥ 14-74-27(94551)
ततः सम्प्रेक्ष्य संक्रुद्धं कालान्तकयमोपमम्।
जिष्णुं त्रैगर्तका योधाः परीताः पर्यवारयन्॥ 14-74-28(94552)
अभिसृत्य परीप्सार्थं ततस्ते धृतवर्मणः।
परिवव्रुर्गुडाकेशं तत्राक्रुद्ध्यद्धनंजयः॥ 14-74-29(94553)
ततो योधाञ्जघानाशु तेषां स दश चाष्ट च।
महेन्द्रवज्रप्रतिमैरायसैर्बहुभिः शरैः॥ 14-74-30(94554)
तान्सम्प्रभग्नान्सम्प्रेक्ष्य त्वरमाणो धनंजयः।
शरैराशीविषाकारैर्जघान स्वनवद्धसन्॥ 14-74-31(94555)
ते भग्नमनसः सर्वे त्रैगर्तकमहारथाः।
दिशोऽभिदुद्रुवू राजन्धनंजयशरार्दिताः॥ 14-74-32(94556)
`हतावशिष्टा हि पराः पार्थं दृष्टपराक्रमाः।'
तमूचुः पुरुषव्याघ्रं संशप्तकनिषूदनम्॥ 14-74-33(94557)
तवास्म किंकराः सर्वे सर्वे वै वशगास्तव।
आज्ञापयस्वः नः पार्थ प्रह्वान्प्रेष्यानवस्थितान्।
करिष्यामः प्रियं सर्वं तव कौरवनन्दन॥ 14-74-34(94558)
एतदाज्ञाय वचनं सर्वांस्तानब्रवीत्तदा।
जीवितं रक्षत नृपाः शासनं प्रतिगृह्यताम्॥ ॥ 14-74-35(94559)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि चतुःसप्ततितमोऽध्यायः॥ 74 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|